________________
सुरः प्राह न देवेन्द्रो-ऽप्यस्या दातुं फलं प्रभुः । अपि त्रैलोक्यराज्यं यद्दीयमानं तृणायते ।।१८। .
एकापि पूजा जैनेन्द्री, दुर्लभान्यपि लम्भयेत् । कल्पवल्लया अदेयं किं ?, किमज्ञेयं च योगिनाम् ? ।।१९।।
परं चतुर्षु कोणेषु, मन्दिरे तव भाविनः । सौवर्णाः कलशा द्रव्य-भृता मदुपदीकृताः ।।२०।।
इदं कुसुममात्रस्य, फलं जानीहि निश्चितम् । वैतरागी यतः पूजा, दत्ते मोक्षसुखान्यपि ।।२१।।
इत्युक्त्वान्तहिते देवे, श्रेष्ठी स्वं सौधमागतः । .... उवाच पुत्रान् भो भद्राः !, धर्मः कस्माद्विमुच्यते ? ।।२२।।
अविधेयाश्रयास्तेऽपि, प्रत्यूचुस्तं क्रुधाकुलाः । रे ! जरन्मूर्ख एवासि, कदर्थयसि किं पुनः ? ।।२३।।
व्यवसायेऽपि नोत्साहः, फलाऽभावे भवेतृणाम् । कः सन्दिग्धफले धर्म-ऽभियोगं कुरुते सुधीः ? ।।२४।।
ततोऽप्युवाच रे मूर्खाः !, कथं शीघ्रं फलोदयः । वृक्षोऽपि रोपित: काले, फलं यच्छति नारत: ।।२५।।
१. संबन्धम् । २. न शीघ्रतः ।।
१७ उपदेश सप्तति