________________
पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोषेण सहसोत्थाय, तं जघान चपेटया ।।१४।।
धृत्वा केशेषु दुष्टात्मा, तमुशासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ।।१५।।
ज्ञाते व्यतिकरे तत्र, स आहूतः क्षमाभुजा । .. भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ।।१६।।
सभ्रूक्षेपं साभिमानं, भूपं स प्राह दुर्मतिः । स मनाक् शिक्षितो भिक्षा-चरस्तत्किन्नु दूषणम् ।।१७।।
अन्योऽपि यदि कश्चिन्मां, धिक्क" तादृशं फलम् । . स प्राप्स्यतीति सोल्लण्ठमुवाच गतभीतिवत् ।।१८।।।
क्रुद्धेन माभुजा धृत्वा, गलेऽसौ कर्षितः पुरात् । बालहत्याभिया किन्तु, वराको नहि मारितः ।।१९।। ..
इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः ! । वियोगः स्वजनेर्भूपा-ऽपमानो वनवासिता ।।२०।।
यथा चक्री मनुष्येषु, त्रिदशेषु पुरन्दरः । तथा गुणेषु सर्वेषु, धौरेयो विनयः स्मृतः ।।२१।।
अथोज्झितकुमारोऽपि, पर्यटन्विकटाटवीः । तापसाश्रममायात-स्तपोधनसमाकुलम् ।।२२।।
१९६ उपदेश सप्ततिः ।