________________
एकेन वणिजा दृष्टो, गृहीतश्च दयालुना । अर्पितो निजभार्यायै, पालयामास सापि तम् ।।५।।
कृतोज्जिताभिधः पित्रा, लुब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चषवार्षिकः ।।६।।
अहमेव पटुः प्राज्ञो, धनवान् बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्करा इव ।।७।।
इत्यहङ्कारपूरण, तृणीकृतजगत्त्रयः । दिवसानतिचक्राम, स शैलस्तम्भसन्निभः ।।८।।
मातृपित्रोदेवगुर्वो-र्न प्रणाममसौ व्यधात् । । नित्यमुत्तान एवास्ते, दुर्विनीतशिरोमणिः ।।९।।
तमाह जनकोऽन्येधु-र्वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुञ्च शाठ्यं, विनयं कुरु पाठके ।।१०।।
अलं मे गलशोषेण, प्राज्ञः प्रागप्यहं यतः । वराकः स उपाध्यायः, किं मे कर्ताऽधिकं वद ।।११।।
वणिजामयमाचारः, इत्यादिबहुचाटुभिः । प्रेषितो लेखशालायां, मातृकादि पपाठ च ।।१२।।
अपराधे क्वचिऋष, कलाचार्येण ताडितः । तावत्तमाह रे भिक्षा-चर ! त्वं मां न वेत्सि किम् ? ।।१३।।
१९५ उपदेश सप्तति
.