________________
साधो ! सुखेन चारित्रं, तव निर्वहते सदा । वपुरस्ति निराबाधं, नाप्यन्यः कोऽप्युपद्रवः ।।२७।।
देवो नरो वा यः कश्चिद्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि- वार्त्ता नित्यं चकार सा ।। २८ ।।
निःस्पृहो मुनिरप्याह, न मे किञ्चन दुष्करम् । यतः सन्तोषिणः सौख्यं, यत्तचक्रभृतोऽपि नो ।। २९ ।।
पारणाहेऽन्यदा गच्छ-नगरान्तः स संयतः । अमङ्गलधियाभ्याप्त-द्विजेनैकेन कुट्टितः ।। ३० ।।
मुनिरप्युच्छलन्मयु- र्मुष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ।। ३१ ।।
भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना ? ।।३२।।
मुने ! तत्राहमायाता, परं त्वं नोपलक्षितः । उभयोर्युद्ध्यमानत्वात्त-दानीं समता ह्यभूत् ।। ३३ ।।
क्षमातपोभ्यां युक्तत्वात्, क्षमाश्रमण उच्यते । तयोरेकतरस्यापि नाशे नाम्नो निरर्थता ।। ३४ ।।
इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः । तत्क्रोधयोधो विजिगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहा यदि । । ३५ ।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे तृतीय उपदेशः || ३ ||
१९३ देश