________________
भो भोः ! भीमभवारण्ये, स्थिताः किं ? नश्यत द्रुतम् । यद्वद्धवैरा धावन्ति, वैरिणो वोऽनुगामिनः ।।१८।।
वैरिणः क इति माप-पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम् ।।१९।।
योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि, सर्वानर्थनिबन्धनम् ।।२०।।
सूरजन्मप्रभृतिकं, तचरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिप्रोक्तं, प्रतिबुद्धा नृपादयः ।।२१।।
केचित्तस्यान्तिके दीक्षां, श्राद्धधर्म च केंचन । स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ।।२२।।
सरजीवोऽपि स माप-च्छोटितः शान्ततां भजन् । दीक्षामादाय सञ्जातः, सर्वसौख्यैकभाजनम् ।।२३।। ।
स्त्रीरूपाऽपि क्षमैवैका, क्रोधयोधं जयत्यमुम् ।। गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ।।२४।।
आक्रुष्टोऽपि हतो वापि, न बालैः कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ।।२५।।
श्रूयते हि पुरा साधु-मेकमुग्रतपःपरम् । देवता काचिदभ्येत्यो-पास्ते तद्गुणरञ्जितः ।।२६।।
१९२ उपदेश सप्ततिः ।