________________
स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेऽप्येष पुंरूपो, राक्षसः कोऽपि विद्यते ।।९।।
कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । ... सूरोऽपि तापसी दीक्षा-मादत्ते स्म तदन्तिके ।।१०।।
तप्त्वा तपांसि भूयांसि, तस्यैव नृपतेर्वधे । कृत्वा निदानं स मृतो, जातो वायुकुमारकः ।।११।।
वसन्तपुरमागत्य, तं भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ।।१२।।
च्युत्वा ततोऽभूअण्डालः, प्रथमं नरकं ततः । .. जगाम कोपकिम्पाक-पादपच्छायमाश्रयन् ।।१३।। .
ततो दृग्विषसो-ऽभूद्वितीये नरके ततः । ततोऽप्यनन्तसंसारं, भ्रान्तः कोपविडम्बितः ।।१४।।
भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोऽभवद्ग्रामा-ध्यक्षो ब्राह्मणनन्दनः ।।१५।।
तथैव कोपनत्वेन, स नृपेण सहान्यदा । कुर्वाणः कलहं राज-भटैरुल्लम्बितो बने ।।१६।।
चतुर्ज्ञानधरं तत्र, प्राप्तं मुनिवरं तदा । आगतो वन्दितुं राजाऽशृणोत्तद्देशनामिति ।।१७।।
१९१
उपदेश सप्तति