________________
धर्मप्राप्तिश्च कष्टेन, भाविनी तव हे सुर ! ।।१४।। श्रुत्वेति स्वप्रबोधक-हेतोस्तेन सुपर्वणा । प्रतिप्रस्तरमुत्कीर्णा, नमस्कारपदावली ।।१५।।
एवं कृत्वा च्युतः काले, स देवो वानरोऽभवत् । पदानि दृष्ट्वा सस्मार, स्वकीयं दैवतं भवम् ।।१६।।
गृहीतानशनस्तत्र, तं मन्त्रं मनसा स्मरन् । बभूव दैवस्तत्रैव, विमाने पूर्वनामभृत् ।।१७।।
अग्रतोऽपि स्वबोधार्थ, स देवः प्रीतमानसः । श्रीशान्तेः कारयामास, चैत्यमेतदिहोनतम् ।।१८।।
श्रीदेवोऽपि निशम्यैवं, नमस्कारं स्वनामवत् । , चकारास्खलितं सम्यक्, पाठं पाठं तदन्तिके ।।१९।।
ततश्च चैत्ये तत्रैव, विधिना जिनदृक्पुरः । नमस्कारमहामन्त्र-लक्षजापं स तेनिवान् ।।२०।।
जापे सम्पूर्णतां प्राप्ते, तुष्टो हेमप्रभोऽमरः । । अमोघविजयां शक्तिं, तस्मै पुण्यवते ददौ ।।२१।। ..
काम्पील्ये च पुरे नीतो, राज्ये च स्थापितो नि । मूर्धाभिषिक्तता प्राप्तः, समस्ते राजमण्डले ।।२२।।
कामरूपपुरेशोऽपि, तस्य किङ्करतां दधौ । वपुरे ! श्रीनमस्कार-महिमा कोऽप्यनुत्तरः ।।२३।।
१८४ उपदेश सप्ततिः