________________
पयः पुलिन्द्रेणैकेन, पायितोऽसौ तृषाकुलः । वने तत्र भ्रमंश्चैकं, पश्यति स्म महामुनिम् ।।७।।
तदने धर्ममादिक्षत, सोऽपि संयतसत्तमः । विशेषतो नमस्कार-महामन्त्रपदानि च ।।८।।
यदुक्तं -
"जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । सो तइअभवे सिज्झइ, अहवा सत्तट्ठमे जमे ।।१।।"
अस्यैकाग्र्यालक्षजापे, सति सर्वोत्तमे भवेत् । तीर्थकृत्त्वं मध्यमे तु, पदवी चक्रवर्तिनाम् ।।९।। ,
सामान्येऽप्यस्य साम्राज्यलक्ष्मीर्भवति देहिनाम् । अतस्त्वमपि तं मन्त्रं, पठ शाम्यविवर्जितः ।।१०।।
श्रीदेवं पुनरप्याह, स मुनिर्भद्र ! पश्यसि । अमुं पुरस्तात् प्रासादं, नमस्कारफलं ह्यदः ।।११।।
तथाहि प्रथमे कल्पे, देवो हेमप्रभाभिधः । एकदा प्रश्नयामास, कञ्चित्केवलिनं मुनिम् ।।१२।।
भगवन् ! बोधिलाभो मे, सम्भवी वा न सम्भवी । कस्यां योनौ च मे जन्म, सर्वमेतत्रिवेदय ।।१३।।
केवली प्राह-इतश्युत्वा भवान् भावी, वानरोऽत्रैव कानने ।
१८३ उपदेश सप्ततिः