________________
आत्मीयजनहस्तेन, भृत्वा काचस्य कुम्पकम् । तं रसं प्राभृतीचक्रे, तेषामेव स्वभक्तितः ।।१६।।
सूरयोऽप्यूचिवांसस्तं, जनं नामितमस्तकम् । किमिदं प्राभृतं वत्स !, केन वा प्रेषितं वद ।।१७।।
सोऽप्युवाच प्रभो ! नागाऽर्जुनेन प्राभृतीकृतः । स्वर्णसिद्धिकरो ह्येष, रसस्त्रैलोक्यदुर्लभः ।।१८।।
आह तस्यास्मदीयस्य, विनेयस्य कृतज्ञता। येनेत्थं नव्यनिष्पन्नो, रसोऽयमुपदीकृतः ।।१९।।
परं वयं परित्यक्त-बहिरन्तःपरिग्रहाः ।। नेच्छामो मनसाप्येनं, तृणस्वर्णसमस्पृहाः ।।२०।।,
अनर्थहेतुनाऽनेन, किमित्यालोच्य चेतसि । एष मुग्धोऽथवाऽस्माक-माचारमपि वेत्ति न ।।२१।।
रक्षास्थण्डिलमानाय्य, तं रसं तत्र चिक्षिपुः । भृतवन्तः पुनः कुम्पं, निजप्रश्रवणेन ते ।।२२।।
तस्मै तमार्पयंस्तेन, वृत्तज्ञापनपूर्वकम् । सोऽपि कोपमनाः प्राप-दुपनागार्जुनं जनः ।।२३।।
ज्ञापिते तेन तद्वत्ते, योगी दध्यौ रुषारुणः । अहो ! विवेक एतेषा-महो ! प्रत्यूपकारिता ।।२४।।
१६९ उपदेश सप्तति