SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-१७" श्रीतीर्थयात्रामतिमात्रभक्त्या, वितन्वते ये मनुजौधयुक्ताः । आभूरिव प्रौढसमृद्धियुक्ता-स्ते पूजनीया जगतां भवन्ति ।।१।। थारापद्रपुरे आभूः, समग्रसचिवाऽग्रणीः । जिनधर्मरतः श्रीश्री-मालज्ञातिशिरोमणिः ।।१।। पश्चिमामण्डलीकेति, बिभ्राणो बिरुदं महत् । भूरिद्रविणकोटीश-आभूः श्रीद इवाऽभवत् ।।२।। . शत्रुञ्जयेऽन्यदा नन्तुं, श्रीयुगादिजिनेश्वरम् ।.. भूरिसङ्घयुतोऽचालीत्, आभूः सङ्घपतिर्मुदा ।।३।। . चेलुर्देवालयाः सप्त-शतानि स्वर्विमानवत् । .. सुखासनरथस्फार-वाहिन्यो भूरिशः पुनः ।।४।। चत्वारिंशत्सहस्राणि, शकटानां विरेजिरे। दशोत्तरा पञ्चशती, तुरगाणां सहाऽचलत् ।।५।। द्वाविंशतिशतान्युष्ट्राः, शतमेकं कटाहिकाः । ताम्बूलिकाः कान्दविकाः, सूपकाराः शतप्रमाः ।।६।। शतमेकं त्रिषष्टिश्च, तत्राट्टानि स्फुटान्यभुः । प्रपाः सप्त विभान्ति स्म, मालाकारशतोमयी ।।७।। शतानि सप्त महिषाः, नीरानयनहेतवे । मनुष्याश्वतरादीना-मियत्ता तु न विद्यते ।।८।। १५६ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy