________________
शक्रोऽप्यत्रान्तरे प्राप्त-श्चक्री तेन समं तदा । राजादनीं नमश्चक्रे, तीर्थभूता हि सा यतः ।।२५।।
नवनवई पुव्वाइं, विहरतो आगओ अ सित्तुंजे । उसभी देवेहि समं, समोसढो पढमतित्थयरो ।।१।।
एकोनसप्ततिकोटा-कोट्योऽशीतिश्च पञ्चयुग् । कोटिलक्षाश्चतुश्चत्वा-रिंशत्कोटिसहस्रकाः ।।२६।। ६९८५४४००००००
वारानेतावतः स्वामी, समागत्यात्र पर्वते । अस्या अधस्ताद्विदधे, सरसां धर्मदेशनाम् ।।२७।।
शक्रश्चक्रिणमाचष्ट, कालो नातः परं वरः। , विना मूर्ति गिरावेव, न श्रद्धास्यन्ति मानवाः ।।२८।।
तीर्थं पर्वत एवायं, पवित्रस्तीर्थकृत्क्रमैः । . विशेषाद्वासनावृद्ध्यै, प्रासादः स्यात्तदा वरम् ।।२९।।
ततश्चक्री चतुर्युक्ता-ऽशीतिमण्डपभासुरम् । क्रोशोचं सार्द्धगव्यूत-दीर्घ रत्नमणीमयम् ।।३०।।
धनुःसहस्रविस्तारं, सद्देवकुलिकायुतम् । त्रैलोक्यविभ्रमं नाम, प्रासादं निरमापयत् ।।३।।
चतुर्दिक्षु चतस्रः श्री-युगादिजिनमूर्तयः । प्रासादे तत्र सद्वर्णाः, स्वर्णमय्यो विरेजिरे ।।३२।।
१५४ उपदेश सप्तति