SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-१६" यात्रां सृजन्तो विदधत्यमात्रां, भक्तिं जिने ते सुखिनो नराः स्युः । शत्रुञ्जयादौ कृतपूर्विणवस्तां, मुक्तिं ययुः श्रीभरतादयो यत् ।।१।। एकदा विहरन् स्वामी, वृषभो जिनपुङ्गवः । विनीतोद्यानमायातो, देववृन्दनिषेवितः ।।१।। हस्तिस्कन्धसमारूढ-चतुरङ्गचमूयुतः । प्राप्तस्तं वन्दितुं तस्य, देशनामशृणोदिति ।।२।। सङ्घस्य भक्तिः सुकुलप्रसूतिः, सुपात्रदानं शुभवित्तयोगः । : सङ्घाधिपत्यं च सुतीर्थसेवा, लभ्यानि भाग्यैः प्रचुरैरमूनि ।।३।। पप्रच्छ भरतः स्वामिन् !, किं सङ्घाऽधिपतेः पदम् । . को विधिस्तत्र किं कार्य, कार्य प्राप्तं कथं च तत् ? ।।४।। स्वाम्याह यच्छन्पञ्चविधं दान-मुद्धरन् दीनसञ्चयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजारोपणम् ।।५।। शत्रुञ्जयादितीर्थेषु, गुर्वादेशवशंवदः । इन्द्रोत्सवादिकं कृत्यं, कुर्वन् सङ्घपतिर्भवेत् ।।६।। भरतश्चिन्तयति - १५१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy