________________
सौवर्णदण्डकलशं मण्डपश्रेणिसुन्दरम् । सद्देवकुलिकायुक्तं, तचैत्यं क्रमतोऽजनि ।। २४ ।।
कारं कारं तत्र भक्त्या, स्तुत्यर्चादि जिनेशितुः । सश्रेष्ठी वार्द्धके प्राप्ते, तपस्यां प्रतिपन्नवान् ।।२५।
किञ्चिद्व्रतं विराध्याऽथ, स मृत्वाप कुदेवताम् । ततश्युत्वाऽभवत्सोऽहं, तस्करस्तास्करे कुले ।। २६ ।। .
प्रासादमद्य दृष्ट्वाहं, जातिस्मरणमाप्तवान् । जीर्णोद्धारं विधाप्याऽत्र, त्वं मे साधम्मिकोऽभवः ।। २७ ।।
न केवलं त्वया स्वात्मा, जिर्णोद्धारवितन्वता । . समुद्धृतोऽहमप्युः, पतन्नरककोटरे ।। २८ ।।
इत्यालापपरचौरो, देवतादत्तवेषभृत् । सञ्जातः संयतो भूप-प्रमुखास्तं ववन्दिरे ।। २९ ।।
क्रमाझ स गतो मोक्षं, विजयोऽप्याप्य सद्व्रतम् । सौधर्मे त्रिदशीभूय, भवेनैकेन निर्वृतः ।। ३० ।।
इति चैतन्यवीननिर्मितेः, फलमाकर्ण्य तदुद्धृतेस्तथा । भविकाः ! भवभञ्जनेच्छवः, क्रियतां चैत्यविधापने मनः ।। ३१ । ।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे त्रयोदश उपदेशः ।। १३ ।।
१४२ उपदेश सप्तति