SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ज्ञानी प्राह त्वदीयो यः, पिता स व्यन्तरोऽभवत् । सर्परूपेण तेन त्वं, निधिं गृह्णन्निवारितः । ९ । । व्यन्तरोऽन्येद्युरागत्य, राज्ञोऽग्रे प्राह वारय । निधिजिघृक्षं विजयं करिष्ये ऽनर्थमन्यथा ।। १० ।। नृपः प्राह निधानेन त्वं किं कर्त्तासि मे वद । पुत्रस्तु कुरुतां दान-पूजादि त्वदनुग्रहात् ।। ११ । । एवं कृते तवापि स्यात्, फलं पुण्यानुमोदनात् । इत्याद्युवाच राजेन्द्रस्तथाप्येष न बुद्धवान् ।।१२।। निधानव्यन्तरस्तम्भ-कारकः कोऽपि कोविदः । अन्यदा विजयस्यैकः, प्राप्तो लोचनगोचरम् ।।१३।। तस्य सान्निध्यतस्तेन, तमाक्रम्य हठादपि । तन्निधानमुपादायि, मूर्त्त पुण्यमिवात्मनः || १४ || तद्द्रव्यव्ययतः श्रीम-गुरूणामुपदेशतः । श्रीशान्तेर्जीर्णचैत्यस्य, स उद्धारं व्यदधीपत् ।।१५।। उपदेशस्त्वयं - नूतनश्रीजिनागार- विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ।।१।। १४० उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy