________________
श्रीसुधर्मकृतग्रन्थान्, कथमर्थापयाम्यहम् । पङ्गोः प्रत्येति को नाम, मेर्वारोहणकौशलम् ।।९।।
देव्याह यत्र सन्देहः, स्मर्तव्याऽहं त्वया तदा । . यथा भिनद्मि तान्सर्वान्, पृष्ट्वा सीमन्धरं जिनम् ।।१०।।
रोगग्रस्तः कथं मातः !, करोमि विवृतीरहम् । मा वादीस्तत्प्रतीकारे, किन्तूपायमिमं शृणु ।।११।।
.
अस्ति स्तम्भनकग्रामे, सेढी नाम महानदी । तस्यां श्रीपार्श्वनाथस्य, प्रतिमास्त्यतिशायिनी ।।१२।।
यत्र च क्षरति क्षीरं, प्रत्यहं कपिलेति गौः। तत्खुरोत्खातभूमौ च, द्रक्ष्यसि प्रतिमामुखम् ।।१३।।,
तदेवं सप्रभावं त-द्विम्बं वन्दस्व भावतः । यथा त्वं स्वस्थदेहः स्याः, इति प्रोच्य गता सुरी ।।१४।।
प्रातर्जागरितास्तेऽथ, स्वप्नार्थमवबुध्य च । .. समं समग्रसचेन, चेलुः स्तम्भनकं प्रति ।।१५।।
तत्र गत्वा यथास्थाने, प्रेक्ष्य पार्श्वजिनेश्वरम् । उल्लसत्सर्वरोमाञ्चाः, एवं ते तुष्टुवुर्मुदा ।।१६।।
जय तिहुयणवरकप्परुक्ख जय जिनधनंतरि, जय तिहुयणकल्लाणकोस दुरिअक्करिकेसरि । तिहुयणजणअविलंधियाण भुवणत्तयसामिय, कुणसु सुहाई जिणेसपास थंभणपुरठिय ।।१।।
१३६ उपदेश सप्तति