________________
"उपदेश:-१२" जयत्यऽसौ स्तम्भनपार्श्वनाथः, प्रभावपुरैः परितः सनाथः । स्फुटीचकाराऽभयदेवसूरि - याँ भूमिमध्यस्थितमूर्तिमिद्धाम् ।।१।।
पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन् भूतले ख्याताः, श्रीजिनेश्वरसूरयः ।।१।।
सूरयोऽभयदेवाख्या-स्तेषां पट्टे दिदीपिरे । . येभ्यः प्रतिष्ठामापत्रो, गच्छः खरतराऽभिधः ।।२।।
तेषामाचार्यवर्याणां, मान्यानां भूभृतामपि,। . कुष्ठव्याधिरभूदेहे, प्राच्यकाऽनुभावतः ।।३।।
ततः श्रीगुर्जरत्रायां, शम्भाणकपुरं प्रति । शक्त्यल्पत्वेऽपि ते चक्रु-विहारं गुरुपुङ्गवाः ।।४।।
रोगग्रस्ततयाऽत्यन्तं, सम्भाव्य स्वायुषः क्षयम् । मिथ्यादुष्कृतदानार्थं, सर्वं श्रीसङ्घमाह्वयन् ।।५।।
तस्यामेव निशीथिन्यां, स्वप्ने शासनदेवता । प्रभो ! स्वपिषि जागर्षि, किं वेत्याह गुरुं प्रति ।।६।।
रोगिणः क्वास्ति मे निद्रे-त्युक्ते देवी गुरुं जगौ । उन्मोटयत तāताः, सूत्रस्य नवकुत्कुटी: ।।७।।
शक्तेरभावेऽप्युक्ते च, साह मैवं वचो वद । त्वमद्यापि नवाझ्या य-दृत्तीः स्फीताः करिष्यसि ।।८।।
.
१३५ उपदेश सप्तति