________________
मिथ्यादृग् व्यन्तरोऽन्येास्तत्र मारिं वितेनिवान् । तेन चिन्तातुराः सर्वे, नृपामात्यादयोऽभवन् ।।१८।।
नृपतिं दुःखितं ज्ञात्वा, स्वप्ने पद्मावती जगौ । माणिक्यदेवप्रतिमा, यास्त्यन्तःसागरस्थिता ।।१९।। ।
पुरेऽत्र यदि साऽभ्येति, तदा मारिय॑लीयते । लब्धोपायस्ततो भूपस्तथैव निखिलं व्यधात् ।।२०।।
तुष्टो लवणनाथोऽपि, भक्तियुक्त्या तदीयया । बिम्बं मन्दोदरीसत्कं, भूपालाय समर्पयत् ।।२१।।
उक्तं चैतत्प्रभावात्ते, सुभिक्षारोग्यसम्पदः । पृष्ठौ कृत्वा स्वयं बिम्बं, मार्गे गच्छ यथासुखम् ।।२२।।
सन्देहं यत्र कर्तासि, तत्र स्थास्यति किन्त्विदम् । शिक्षां दत्त्वेति देवोऽपि, तिरोऽधत्त क्षणादपि ।।२३।।
आरोग्य पृष्टौ तामों, ससैन्यः क्षितिपोऽचलत् । यावत्तिलिङ्गदेशस्य-कुल्पपाकपुरेऽगमत् ।।२४।।
तावञ्चकार, सन्देह, तद्धाराऽवेदनात् क्वचित् । किमागच्छति नो वेति, ततस्तत्रैव तत् स्थितम् ।।२५।।
श्रीकुल्पपाकनगरे, रम्यं चैत्यं विधाप्य नरपतिना । निर्मलमरकतमणिमय-रुचिरं तद्विम्बमस्थापि ।।२६।।
१३३ उपदेश सप्तति