SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रुत्वेति नारदः प्राह, तन्माहात्म्यं तु वज्रिणः । मेरौ शाश्वतचैत्यानि, वन्दितुं समुपेयुषः ।।९।। ततः शक्रोऽपि तां देवै-रानयामासिवान् दिवि । नहि कल्पलताप्राप्ती, भवेन्मन्दादरः सुधीः ।।१०।। इत्थं सा स्वर्गलोकेऽपि, देवैः सन्तुष्टमानसैः । . सुबहून् सागरान् याव-दचिंता भक्तिभासुरैः ।।११।। अत्रान्तरेऽत्र भरते, रावणो राक्षसेश्वरः । त्रैलोक्यकण्टको जात-स्तस्य मन्दोदरी प्रिया ।।१२।। तयापि नारदमुखा-त्तन्माहात्म्ये श्रुते सति ।' .. प्रेरितो रावणः शक्र-मारराध धियां निधिः ।।१३।। , तुष्टः शक्रोऽपि तामों, मन्दोदर्याः समर्पयत् ।। त्रिसन्ध्यमतिहर्षेण, सापि पूजयति स्म ताम् ।।१४।। अथाऽन्यदा दशग्रीवो, रामभार्यामपाहरत् । . कलत्रभ्रातृपुत्राद्यैः, प्रोक्तोऽप्येतां मुमोचं न ।।१५।। बिम्बाधिष्ठायकोऽवादी-ल्लङ्कालङ्काधिपक्षयम् । मन्दोदर्या ततः सार्चा, न्यासीचक्रे पयोनिधौ ।।१६।। इतश्च - कर्णाटकदेशे कल्याण-नगरे शङ्करो नृपः । अभूजिनपदाम्भोज-भृङ्गोऽभङ्गुरभाग्यवान् ।।१७।। १३२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy