________________
मुखं हस्तौ च पादौ च, प्रक्षाल्य स्वगृहं ययौ । ते चाङ्गावयवाः सद्यो, जाताः काञ्चनरोचिषः ।।९।।
प्रातस्तत्कौतुकं दृष्ट्वा, किमेतदिति भूपतिम् । पप्रच्छ राज्ञी वृत्तान्तं, सोऽप्याह क्षालनादिकाम् ।।१०।।
..
कोऽप्यत्रातिशयोऽस्तीति, विस्मितो हृदि भूपतिः। तत्र स्नानं विधत्ते स्म, ततो जातो निरामयः ।।११।।
नैवेद्यबलिधूपादि, कृत्वा भूपो जुघोष च । अत्रास्ति दैवतं यत्तत्, प्रकटीभवतादिति ।।१२।।
उक्त्वेति तस्यां यामिन्यां, तत्रैव स्वपिति स्म सः । ब्राम्ये मुहूर्तेऽधिष्ठाता, देवस्तमिति चाऽलपत् ।।१३।।
अत्र श्रीपार्श्वनाथस्य, भाविनः प्रतिमाऽस्ति भोः । यत्प्रभावात्तवाङ्गोत्थः, कुष्ठरोगः क्षयं ययौ ।।१४।। आरोप्य शकटे चैनां, सप्ताहर्जाततर्णको । । नियोज्य सारथीभूय, स्वयं चालयतां द्रुतम् ।।१५।।
द्रक्ष्यस्यवाङ्मुखं यत्र, तत्र स्थास्यत्यसौ पुनः । इति.प्रोच्य गतो देवो, भूपोऽपि प्रत्यबुध्यत ।।१६।।
सुरोक्तमखिलोपायं, प्रातर्भूपोऽपि निर्ममे । यावत्किञ्चिद्व्यतिक्रान्त-भूभागं संदिदेह सः ।।१७।।
आयाति प्रतिमा किं वा, नवेत्युद्वेगमावहन् । वक्रीकृत्य क्षणाद्ग्रीवां, भूपः पश्चाद्व्यलोकत ।।१८।।
१२९ उपदेश सप्तति