________________
"उपदेश:-१०" श्रीअन्तरिक्षप्रभुपार्श्वनाथः, श्रेयांसि स प्राणभृतां तनोतु । यदङ्गसम्पर्कि पयो निपीय, श्रीपालराजाऽजनि नष्टकुष्ठः ।।१।।
.
किलैकदा रावणेन, स्वकार्ये विनियोजितौ । गच्छतः स्म विमानस्थो, क्वचिन्मालिसुमालिनौ ।।१।। .
.
तदार्हत्प्रतिमा ताभ्यां, व्यस्मारि स्वगृहे पुनः । जिनार्चनं विना भुक्ते-नियमस्तु दृढस्तयोः ।।२।।
प्राप्ते भोजनकाले तु, पवित्रैर्वालुकाकणैः । निर्माय प्रतिमा पार्श्व-प्रभोः पूजयतः स्म तौ ।।३।।
ततः सा प्रतिमा ताभ्यां, गच्छद्भ्यामग्रतः पुनः । . सरोऽन्तः स्थापिता दिव्यानुभावाच स्थिराऽभवत् ।।४।।
ततः प्रभृति तस्मिंश्च, पल्वले विमलं जलम् । न जातु त्रुटितं तस्याः, प्रतिमायाः प्रभावतः ।।५।।
तदा च बिङ्गिल्लपुरे, श्रीपालो नाम भूपतिः । सर्वाङ्गमभवदुष्टकुष्ठरोगेण पीडितः ।।६।।
अप्योषधशतैवेद्याः, अकार्षस्तत्प्रतिक्रियाः । तथापि न गुणो जात-स्तृषेव क्षारनीरतः ।।७।।
क्रीडाकृते गतो भूपोऽ-न्यदा तस्मिन् सरोवरे । विश्रान्तस्तृषितः पीत्वा, जलं स्वस्थोऽभवत् क्षणम् ।।८।।.
.
१२८ उपदेश सप्तति