________________
ततश्च स चिरं तेपे, तपांसि विविधान्यपि । भूयासमुझदेहोऽहं निदानमिति चातनोत् ।।९।।
स वामनः क्रमान्मृत्वा, यूथनाथो महाबलः । तस्यामटव्यां सञ्जातो, महीधर इति द्विपः । । १० ।।
अन्यदा श्रीपार्श्वनाथः, छद्यस्थो विहरन् भुवि । आयातः पल्वले तत्र, कायोत्सर्गे च तस्थिवान् ।। ११ । ।
स गजो जलपानार्थं, तदा तत्र समागतः । जगन्नाथमथालोक्य, जातिस्मरणवानभूत् ।।१२।।
अहो ! धर्मं विराध्याऽहं, पशुरज्ञानतोऽभवम् । तदैव देवमर्चित्वा, कुर्वे स्वं सफलं जनुः । । १३ ।।
•
विमृश्येत्यम्बुजवाते रभ्यर्च्य परमेश्वरम् । कृत्वानशनमुत्पन्नो, महर्द्धिव्यन्तरेष्वसौ || १४ ||
श्रुतश्च चम्पानाथेन, करकण्डुमहीभुजा । सर्वो व्यतिकरः सोऽयं, विस्मितश्च स्वचेतसि ।।१५।।
यावत्स भूपतिस्तत्रा - गच्छत्युत्साहपूरितः । विजहार प्रभुस्तावत् स विषादं दधौ भृशम् ।। १६ ।।
किं स्यान्निर्भाग्यसत्त्वानां, श्रीजिनेन्द्रस्य दर्शनम् । आत्मानं निन्दयामास, श्लाघयामास च द्विपम् ।।१७।।
स्थाने च तत्र प्रासादं महान्तं निरपीपदत् । नवहस्तमिताऽस्थापि, तत्र च प्रतिमा प्रभोः ।। १८ ।।
१२६ उपदेश सप्तति