________________
देवगुर्वोः प्रसादेन, सोऽवादीदम्बिका ततः । चुकोप यत्कृतघ्नोऽसौ, मत्कृतं नैव मन्यते ।।३७।।
द्वादशप्रहरव्यूढ-सीसकारकरूप्यतः । शिखरावधि तचैत्यं, जातं तस्याऽग्रतो न तु ।।३८।।
आकार्य पत्तनात्तान् श्री-गुरूंस्तां भगिनीं च सः । श्रीनेमेः कारयामास, प्रतिष्ठाविस्तरान् बहून् ।।३९।। ..
उवाच भगिनी सापि, बन्धो ! वस्त्राणि देहि मे ।। चैत्येऽत्र मण्डपमहं, कारये चेद्भवान्वदेत् ।।४०।।
श्रेष्ठी बभाण सुष्टुक्तं, त्वयेत्यथ विधायितः । . . मण्डपो मेघनादाख्यो, नवलक्षव्ययात्तया ।।४१।। ।
अन्येऽपि तत्र प्रासादाः, कारिता व्यवहारिभिः । एवं च तत्तीर्थमभूत्, प्रसिद्धं पृथिवीतले ।।४२।। ,
ग्रन्थान्तरेऽप्युक्तम् -
गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो-स्तुङ्गं . पासिलसंज्ञितेन सुधिया श्रद्धावता मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रसूरिसुगुरोनिर्ग्रन्थचूडामणेर्वादीन्द्रः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ।।१।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे अष्टम उपदेशः ।।८।।
१२४ उपदेश सप्तति