________________
क्षुदादिकृच्छ्रं मा भूयात्, पशूनामथवा नृणाम् । विमृश्येति व्यधादेवं मन्त्री सर्वोपकारकृत् ।।१८।।
अथो रथकलैः प्रौढैः, प्रापयत् प्रस्तरानयम् । पद्मयोम्बरिणीग्राम - सत्कयाऽर्बुदमूर्द्धनि ।। १९ । ।
उदाख्यं च निजं श्यालं, कर्मस्थाने न्ययोजयत् । अर्थव्यये यच्छत्वं समादीक्षत्स धीसखः ।। २० ।।
शोभनप्रमुखाः सूत्र - धारा: सप्तशतीमिताः । घटयन्तीत्यादिसूत्रं कृत्वा स स्वपुरं गतः ।।२१।।
ततो निष्पद्यते चैत्यं, सूत्रधाराः पुनः पुनः । वृत्तं गृह्णन्ति दुःशिलाः, कर्मस्थायात्पुरः पुरः ।। २२ ।।
ततो विज्ञापयामास, श्यालको मन्त्रिणं प्रति । बिनाशितास्तव द्रम्माः, सूत्रधारैरशेषतः ।। २३ ।।
लेखेन ज्ञापयाञ्चक्रे, तेजःपालेन तं प्रति । द्रम्माः किं कुथिता येन, विनष्टा इति भाषसे ।। २४ ।।
स्वमातृवन्ध्यतावाक्य - वदिदं निष्फलं वचः । उपकारक द्रम्मा, किन्तु जाता इति वचः ।। २५ ।।
शृणु तत्त्वमिदं तस्माद्विनीतेन त्वयाः सदा ।
न कार्य: सूत्रधाराणा-मिच्छाच्छेदः कदाचन ।।२६।।
१०८ उपदेश सप्तति