________________
तेऽप्यूचुर्यावती भूमि-द्रम्मैः पूरयितुं त्वया । शक्यते तावती ग्राह्या, नान्येत्युल्लण्ठवादिनः ।।९।।
अङ्गीकृत्य तदप्येष, द्रम्मैः पूरयितुं भुवम् । समारभत धीराणां, लक्ष्मीर्यच्छुभकर्मणे ।।१०।।
ततः प्रस्तृणता तेन, द्रम्मान्भुवि कणानिव । षट्त्रिंशन्मूटकास्तेषां, तत्र प्रसारिताः क्षणात् ।।११।।
"द्वाषष्टिलक्ष द्विपति-सहस्राष्टशतप्रमाः । अत्र द्रम्माः स्युराश्रित्य, वीसलप्रियनाणकं ।।१२।।
अथ तेऽप्यूचिरे मन्त्रि-वग्राह्या भूरतः परम् । . . धनवांस्त्वं हि गृह्णीयाः, शैलमप्यविलम्बितम् ।।१३।।
किञ्चायतौ हितमभूत्, यतोऽद्यापि न दृश्यते । प्रासादेऽत्र करः कोऽपि, द्युम्नक्रीतत्वतो भुवः ।।१४।।
इदं च मन्त्रयित्वैव, प्रथमं मन्त्रिपुङ्गवः । व्यधत्त नोचेज्जायेत, चैत्यं हि करभारितम् ।।१५।।
एवं भुवं गृहीत्वाऽसौ, श्रीमदारासणे गतः । तत्र चैत्यकृते भूरि-प्रस्तरान् निरकाशयत् ।।१६।।
ततोऽर्बुदं यावदसौ, प्रतिगव्यूतमादरात् । सुप्रापसर्ववस्तूनि, ग्रामेष्वट्टान्यकारयत् ।।१७।।
१०७ उपदेश सप्तति