________________
"उपदेशः-५" प्रासादं श्रीअर्हतां कारयन्तो, धन्याः पुण्यां सम्पदं प्राप्नुवन्ति । दृष्टान्तोऽत्र स्पष्टयते कोविदेन्द्र-मन्त्री तेजःपालनामास्ति केन्द्रः ।।१।।
श्रीवीरधवलक्ष्माप-राज्ये व्यापारकारिणौ । श्रीवस्तुतेजःपालाख्या-वभूतां गुर्जराभुवि ।।१।।
।
श्रुत्वैकदा श्रीविमल-स्फीतकीर्तनमर्बुदे । उन्मना वस्तुपालोऽभूत्, तत्र तत्कारणेच्छया ।।२।।
ततः श्रीवस्तुपालेन, तेजःपालाय भाषितम् । स्वभ्रातृलूणिगश्रेय:-कृते चैत्यं विधाप्यते ।।३।।
स्वप्रान्तसमये प्रोक्त-मप्यभूल्लूणिगेन यत् । चेद्वः सम्पद्यते सम्प-चैत्यमेकं तदाऽर्बुदे ।।४।।
निर्मापणीयं मनाम्ना, तदा निर्द्धनताऽभवत् । . , इदानी सम्पदोऽमुष्याः, फलं कस्मान गृह्यते ।।५।। युग्मम् ।।
प्रतिश्रुत्य स तद्वाक्यं, विनीतः क्षितिपाज्ञया । समं समग्रसामग्र्या, ययौ चन्द्रावतीं पुरीम् ।।६।।
धारावर्षनृपस्तत्र, तोषितस्तेन मन्त्रिणा । प्रासादकारणाऽऽदेशं, यथा सद्यः स दत्तवान् ।।७।।
अथाऽर्बुदगिरौ गत्वा, तेजःपालेन याचिताः । श्रीमाताबोटिकाः प्रौढ-प्रासादााँ वसुन्धराम् ।।८।।
१०६ उपदेश सप्तति