________________
यो द्वादश सुरत्राणान्, जित्वा कटकपेटकैः । तेभ्यः छत्राणि तावन्ति, जग्राह स्वैकलीलया ।।९।।
सम्यग्यत्कटके धान्य-व्ययसंख्या न लभ्यते । प्रतिप्रयाणकं त्रिघ्न- सप्तलक्षव्ययः परम् ।।१०।।
तीर्थस्थापनसन्तान - सस्पृहो विमलाऽधिपः । अम्बामाराधयामास, भक्तितोऽवसरे तदा ।। ११ । ।
ततः प्रत्यक्षतां प्राप्ता, देवी तं प्राह मन्त्रिणम् । तव नास्ति द्वयी प्राप्ति - स्तत्त्वं वद यथारुचि ।।१२।।
सन्ततिं पापहेतुत्वा-दनादृत्य स घीसखः । प्रासादं प्रार्थयाञ्चक्रे, सात्त्विकानां शिरोमणिः ।। १३ ।।
भूमिं निवेद्य तां द्रव्य-युतां देवी तिरोदधे । प्रासादारम्भसंरम्भं, सचिवोऽपि व्यधापयत् ।।१४।।
मन्त्रिणा कार्यमाणेऽथ, प्रासादेऽर्बुदमूर्द्धनि । श्रीमातापूजकाः किन्तु, न चैत्याऽनुमतिं ददुः ।। १५ ।।
पुरा कदापि नाऽत्राभूत्, श्रीजिनायतनं खलु । तत्सम्प्रत्यपि जैनेन्द्रं, चैत्यमत्र कथं भवेत् ? ।। १६ ।।
पुनः स्मृत्वाऽम्बिकां मन्त्री, तद्वृत्तं प्राह तत्पुरः । साप्याह या मयोक्ता ते, भूमिका द्रव्यसंयुता ।।१७।।
१०३ उपदेश सप्तति