________________
"उपदेशः-४" धन्याः पुमांसः स्पृहयालव: शिवं, निर्मापयन्त्यार्हतमन्दिराण्यपि । यथा स मन्त्री विमलोऽर्बुदे गिरौ, युगादिचैत्यं निरमापयत्सुधीः ।।१।।
श्रीउजयन्तार्बुदयोः, स्वैरं कृतनिवासयोः । अम्बाश्रीमातयोरासी-त्सख्यमक्षय्यमन्यदा ।।१।।
श्रीमातयाऽम्बिका प्रोक्ता, त्वमत्रागच्छ हे सखि !। । निर्वियोगं यथा क्रीडा, भवत्यनिशमावयोः ।।२।।
अम्बा प्राह विना जैन-प्रासादं मम न स्थितिः । श्रीमाताप्याह भूरस्ति, चम्पकासनवत्तिनी ।।३।।
सप्तविंशतिलक्षाभि-द्रम्माणां परिपूरिता। चैत्यस्यार्हा परं तस्य, कोऽपि कारयिता यदि ।।४॥
इति द्रव्ययुलां भूमि-माकाम्बा प्रमोदतः । . , चैत्यनिर्मापकं शीघ्र-मानेष्यामीति तां जगौ ।।५।।
चतश्चत्वारिंशदग्र-चतुःशतमिता बभुः । प्रासादा आर्हता यस्यां, शैवा नवशतीमिताः ।।६।।
तस्यां चन्द्रावतीपुर्या, भीमभूपापमानितः । आगत्य कुरुते राज्यं, विमलो दण्डनायकः ।।७।।
अब्ध्यसंख्य ८४ वरजाङ्गिकढोल्लवृन्दे, यस्याऽधिकारिपुरुषैः परिताड्यमाने । भुक्तेः क्षणे भजति भीमनृपस्य हैम-स्थालं विशालमपि चञ्चलतामतीव ।।८।।
१०२ उपदेश साप्ततिः