________________
सोऽपि चिन्तितवानेते, धनिनोऽपि मितंपचाः । यदेवंविधतीर्थेऽत्र, सर्वस्वं न व्ययन्त्यमी ।।१७।।
गत्वरेणाऽमुना किं मे, धनेन भयहेतुना । तीर्थकार्ये भवत्येतत्, सफलं द्रम्मपञ्चकम् ।।१८।। .
चिन्तियित्वेति सोत्कण्ठं, गत्वा नत्वा च मन्त्रिणे । निवेद्य स्वस्वरूपं च, तस्मै तद्रव्यमार्पयत् ।।१९।।
अहो ! साहसमेतस्य, सर्वस्वस्य समर्पणात् । अपि भूरितरे द्रव्ये, सर्वस्वं स्वं व्ययेत कः ।।२०।।
यतः -
"दानं दरिद्रस्य विभोः प्रशान्ति-यूनां तपो ज्ञानवतां च मोनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ।।१।।"
चिन्तित्वेति तनाम, समग्रव्यवहारिणाम् । . , शिरसि न्यस्तवान्मन्त्री, विलक्षास्तेऽभवंस्ततः ।।२१।।
तान्वैमनस्यमापनान्, बभाषे मन्त्रिपुङ्गवः । सर्वस्वमर्पयाञ्चक्रे, यथाऽयं दुर्गतोऽपि सन् ।।२२।।
यदि क्रियेत युष्माभि-रप्येवं तर्हि बान्धवाः ।। भवतामपि तत्राम, मुख्यमत्र विधीयते ।।२३।।
इत्युक्ते ते दोम, दुर्गतोऽप्येष तद्दिने । तीर्थोपवासमाधाय, पादलिप्तपुरे गतः ।।२४।।
९६ उपदेश सप्तति