SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सोऽपि चिन्तितवानेते, धनिनोऽपि मितंपचाः । यदेवंविधतीर्थेऽत्र, सर्वस्वं न व्ययन्त्यमी ।।१७।। गत्वरेणाऽमुना किं मे, धनेन भयहेतुना । तीर्थकार्ये भवत्येतत्, सफलं द्रम्मपञ्चकम् ।।१८।। . चिन्तियित्वेति सोत्कण्ठं, गत्वा नत्वा च मन्त्रिणे । निवेद्य स्वस्वरूपं च, तस्मै तद्रव्यमार्पयत् ।।१९।। अहो ! साहसमेतस्य, सर्वस्वस्य समर्पणात् । अपि भूरितरे द्रव्ये, सर्वस्वं स्वं व्ययेत कः ।।२०।। यतः - "दानं दरिद्रस्य विभोः प्रशान्ति-यूनां तपो ज्ञानवतां च मोनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ।।१।।" चिन्तित्वेति तनाम, समग्रव्यवहारिणाम् । . , शिरसि न्यस्तवान्मन्त्री, विलक्षास्तेऽभवंस्ततः ।।२१।। तान्वैमनस्यमापनान्, बभाषे मन्त्रिपुङ्गवः । सर्वस्वमर्पयाञ्चक्रे, यथाऽयं दुर्गतोऽपि सन् ।।२२।। यदि क्रियेत युष्माभि-रप्येवं तर्हि बान्धवाः ।। भवतामपि तत्राम, मुख्यमत्र विधीयते ।।२३।। इत्युक्ते ते दोम, दुर्गतोऽप्येष तद्दिने । तीर्थोपवासमाधाय, पादलिप्तपुरे गतः ।।२४।। ९६ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy