SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ निवेदनीया युष्माभि- स्तेनामी मे मनोरथाः । पुत्रयोरिति सम्भाष्य, स्वोत्तमार्थमसाधयत् ।।९।। अथ तैः पत्तनप्राप्तै- स्तत्स्वरूपे निवेदिते । शत्रुञ्जयो (द्धृतिं) द्धारकृत्यं, वाग्भटः प्रतिपन्नवान् ।।१०।। ततः श्रीवाग्भटो मन्त्री, चैत्यनिर्मापणेच्छया । जगाम सपरिवारः, श्रीशत्रुञ्जयपर्वते । । ११ । । तत्र निर्माप्यमाणेऽथ, प्रासादे व्यवहारिणः । अपयन्ति स्म नैकानि, स्वस्वद्रव्याणि मोदतः ।।१२।। उक्तं च - " एपि उदगबिन्दु, जह पक्खित्तं महासमुद्दमि । जायइ अक्खयमेवं, पूआवि हु वीयरागस्स । । १ । । " मन्त्री तेषां तु नामांनि, लिखति क्रमशस्ततः प्रभूतः समुदायस्तु, मिलितस्तत्र विद्यते ।। १३ ।। तत्र चावसरे कश्चिद्, दुर्गतो नाम कर्म्मतः । यात्रार्थी मरुदेशीय-स्तं प्रदेशमुपागमत् ।।१४।। द्रम्मपञ्चकमेतस्य, सर्वस्वं विद्यते पुनः । तेनैव व्यवसायादि, कुर्वाणोऽस्त्युदरंभरिः । । १५ ।। तेनाss सन्नजनाः पृष्टाः, किमित्येष महाजनः । तथाभूतं च वृत्तान्तं, तेऽपि तस्मै न्यवेदयत् ।। १६ ।। ९५ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy