SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ इदमुद्ग्राहितं देव !, देशस्येत्यवधारय । भूपोऽप्याह ममादेशं, विना कारितवान् कुतः ? ।।२२।। उवाच सजनः चैत्य-पुण्यैकस्पृहयालवः । । अमी तव प्रसादेन, समृद्धा व्यवहारिणः ।।२३।। तव द्रम्मान प्रदास्यन्ति, तन्मह्यं कुष्य मा विभो !। . द्रम्मान्वा चैत्यपुण्यं वा, रोचते यद् गृहाण तत् ।।२४।। इत्युक्ते भूपतिः प्राह, चैत्यपुण्यं तदस्तु मे । मन्नाम्नैव परं वाच्यः, प्रासादः सोऽपि तं जगौ ।।२५।। प्रासादो देवपादानां, सर्वोऽप्येष विजुम्भते । ... मम रङ्कस्य किं नाम, कीर्त्त कीर्तिकारकम् ।।२६।। ततो भृशतमां तुष्ट-स्तस्मै पुण्यवते नृपः । . पुनः समर्प्य व्यापारं, स्वयं श्रीपत्तने ययौ ।।२७॥, सजनोऽपि ततो भक्त्या, पट्टकूलमयं ध्वजम् । आरभ्य रैवतात् शत्रुञ्जयं यावद्वितीर्णवान् ।।२८।। बाणष्ट रुद्रप्रमिते, ११८५ वर्षे विक्रमभूपतेः । अचीकरदिदं चैत्यं, सज्जनो दण्डनायकः ।।२९।। कोटिर्लक्षद्विसप्तत्या, युक्ता तेन व्ययीकृता । जीर्णनाणकटङ्काना-मत्रेत्याहुर्बहुश्रुताः ।।३०।। १. "ङ्करुद्रप्रमि।" इत्यपि ।। ९२ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy