SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ पादावधार्यतां तत्र, यथा तदर्शयाम्यहम् । गिरिनारस्य माहात्म्यं, यतो लोकेऽपि पठ्यते ।।१७।। उजयन्तगिरौ रम्ये, माधे कृष्णचतुर्दशी । । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ।।१८।। पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः । नेमिनाथः शिवेत्याख्यां, नाम चक्रेऽस्य वामनः ।।१९।। लोकोत्तरेऽपि - "षड्विंशतिविंशतिषो-डशदशद्वियोजनधनुःशतोयशराः । अवसर्पिणीषु यः खलु, स जयति गिरिनारगिरिराजः ।।१।। यदतीतचतुर्विंशति-नमीश्वराद्या इहाऽष्ट जिनपतयः । कल्याणकत्रिकमापुः, स जयति गिरिनारगिरिराजः, ।।२।। श्री ब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या । विंशतिसागरकोटी:, स जयति गिरिनारगिरिराजः ।।३।।" श्रुत्वेति सपरिवारो, गतो रैवतके नृपः । चैत्यमत्यद्भुतं दृष्ट्वा, कोऽस्य कारयितेत्यवक् ।।२०।। .. सजनोऽपि जगौ कर्ण-भूपालकुलचन्द्रमाः । अस्य कारयिता देव !, जयसिंहनरेश्वरः ।।२१।। ९१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy