SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सोऽप्याह भो ! न जानीथ, यूयं किं मम निश्चयम् । कदाप्यपूजिते देवे, प्राणान्तेऽप्याहरामि किम् ? ।।१७।। अस्मभ्यं चेगुडं दत्से, दर्शयामस्तदैव तम् । ओमिति प्रतिपेदाने, तस्मिंस्ते मुदिता हृदि ।।१८।। पूर्ववत्तानि खण्डानि, तस्मिन्पश्यति तैः पुनः । ... यथावयवविन्यासं, बिम्बं संयोज्य दर्शितम् ।।१९।। विलोक्यैवं स पुण्यात्मा, भृशमेव विषादवान् । इत्यभिग्रहमाधत्त, सात्त्विकानां शिरोमणिः ।।२०।। : अखण्डं यावदेतन, तावन्नाश्नामि सर्वथा । : .. ततो रजन्यां तं प्राह, स्वप्नेऽधिष्ठायकः सुरः ।।२।। चन्दनस्य विलेपेन, खण्डान् सप्तापि मीलय । अखण्डत्वं ततो भावि, प्रातः सोऽपि तथाऽकरोत् ।।२२।। एवं श्रीअभिनन्दनबिम्बं, कृत्वा व्यक्तमखण्डाकार(क)म् । दत्तकिरातगुडादिद्रव्यः, सुस्थाने क्वचिदर्धयति स्म ।।२३।। एवं च तीर्थं तज्जातं, महामहिमभासुरम् । चतुर्दिग्भ्यः समायान्ति, तत्र सङ्घाश्च भूरयः ।।२४।। . तत्प्रभावाजातपुत्रः, साधुर्हालाभिधः सुधीः । प्राग्वाटवंशमूर्द्धन्य-स्तत्र चैत्यमचीकरत् ।।२५।। ७७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy