________________
ततो भीमनृपस्तं त्रिः, पर्यधापयदुज्ज्वलैः । पट्टकुलैः सुवर्णाद्यं, प्रभूतं च ददौ मुदा ।।१२।।
खड्गं विकोशं सैन्यं च, धवलक्कपुरेशिताम् । दत्त्वा तं व्यसृजद्राजा, सोऽपि स्वं पुरमाययौ ।।१३।।
ततः प्रभृति चौराणां, नामापि खलु निष्ठितम् । गूर्जरत्राक्षितौ तस्मिन्, रक्षके दण्डनायके ।।१४।।
अन्यदा चारणः कोऽपि, तत्परीक्षाचिकीर्षया । करभं चोरयामास, धृतोऽसौ जिणहाजनैः ।।१५।।
आनीय दर्शितो दण्डे-शाय पूजां वितन्वते । .. स्वामिन्नेतस्य चौरस्य, दण्डः क इति कथ्यताम् ।।१६।।
अंडलीसंज्ञया सोऽपि, तेभ्यस्तं वध्यमादिशत् । चारणोऽवसरज्ञोऽथ, तं प्रत्येवमभाषत ।।१७।।
इक जिणहा नई जिणवरह, न मिलई तारोतार । जेण अमारण पूजीइं, ते किम मारणहार ।।१८।।
श्रुत्वेति विस्मितः स्वान्ते, स्मितपूर्व मुमोच तम् । चौर्यं न जातुकार्य च, त्वयेति तमशिक्षयत् ।।१९।।
चारणोऽप्याह -
६८
उपदेश सप्तति