________________
साप्युष्ट्यपि कियत्कालं, भ्रान्त्वात्र भवकानने । लब्ध्वा प्रौढकुले जन्म, सिद्धिं यास्यत्यसंशयम् ।।१८।।
कारंकारं दीपपूजामपीत्थं, सा स्त्री जाता यद्वदुष्ट्री वराकी । भो भो भव्यप्राणभाजस्तदेवं, युक्तो जैनाभ्यर्चने वो विवेकः ।।१९।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पञ्चदश उपदेशः ।।१५।।
५८ उपदेश सप्तति