SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सदापि धर्मानुष्ठान- निष्णातमतिवैभवा । नित्यं स्वगृह बिम्बाग्रे, दीनं दीपं करोत्यसौ । । ९ । । परं तेनैव दीपेन, गृहकार्याणि चक्रुषी । अनालोचिततत्पापा, सैवेत्थमुदपद्यत ।।१०।। अत्र कः प्रत्ययः श्रेष्ठि- पृष्टः सूरिः पुनर्जगौ । निधिर्न्यासीकृतो योऽभूत्, त्वत्पित्रा गृहकोणके । । ११ । । स प्राप्तो न त्वया भद्र !, बहुशोऽपि विलोकितः । तं चैषा वेत्ति ते माता, प्राग्भवाभ्यासयोगतः । । १२ ।। सापि ज्ञानिवचः श्रुत्वा, जातिस्मरणवत्यभूत् । सोऽपि नत्वा मुनिं तां च, लात्वा स्वगृहमागतः ।। १३ ।। तां च पप्रच्छ हे मात-1 - निधानं मे प्रदर्शय । सापि प्रमुदिता तस्मै, निधिस्थानमदर्शयत् ।।१४।। ततो विरक्तः संसारात्, स श्रेष्ठी तद्धनं समम् । व्ययीकृत्य सुपात्रादौ भवस्थितिमचिन्तयत् ।।१५।। अहो ! मातापि मे जाता, करभी कर्म्मयोगतः । तदलं क्लेशकोटीनां, निमित्तेन गृहेण मे ।। १६ ।। कृतं परिच्छदेनापि, परमार्थैकशत्रुणा । विमृश्येति प्रवव्राज, तेषामेवान्तिके कृती ।। १७ । । ५७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy