________________
क्रमेण षष्टिः पञ्चाश-दक्षिणोत्तरपार्श्वयोः । नगराणि पुनस्ताभ्यां, निवेश्यन्ते स्म तद्गिरौ ।।२७।।
साधयित्वाखिलान् देशान्, वशीकृत्य च राजकम् । जातो विद्याधराधीशौ, प्रौढदोःस्थामधारिणौ ।।२८।।
प्रान्ते श्रीजिनपादान्ते, प्रव्रज्यां प्राप्य निर्वृतौ । साधुकोटिद्वयीयुक्तौ, श्रीशत्रुञ्जयपर्वते ।।२९।।
अन्यत्राप्युक्तं -
मुणिणोवि तुहल्लीणा, नमिविनमी खेयराहिवा जाया । गुरुआण चलगसेवा, न निष्फला होई कइआवि ।।१।।
इत्थं कृताप्यैहिकभोगतृष्णया, भक्तिर्जिनेन्दोर्ददते तनूमताम् । यदैहिकामुष्मिकसत्फले ततो, यतध्वमत्रैव जनाः ! शिवैषिणः ! ॥३०॥
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे त्रयोदश उपदेशः ।।१३।।
५२
उपदेश सप्तति