________________
(आ) केषाञ्चित्तु तेषामपि तारतम्येन स्वल्पमपि फलं स्वीकार्यं न तु निष्फलता । अत्रागमः-''जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेण ||१|| कलं नग्घइ सोलसिं० पलालपूलु व्व'' इत्यादावपीदमेव तात्पर्यम् । "अविरयमाइ सुराउं बालतवोऽकामनिज्जरो जयइ ‘त्ति । ``सरागसंजमेणं बालतवेणं' ति "चरगपरिव्वाय बंभलोगो जा' इत्यपि । अत एव बालतपस्विनामपि को डिन्नदिन्नसेवालिनाम्नां स्वीयस्वीयतपोऽनुसारेणैव सोपानप्राप्तिः । सर्वथा विफलतायां तु सर्वेषामप्राप्तिः प्रसज्यते । कथं च कर्म्मलाघवमन्तरेण मिथ्यात्विन एव ग्रन्थिदेशं यावदागच्छन्ति ? । न चाकामनिर्जरामात्रमेव तत्र हेतुः कारणान्तराणामपि विवाहप्रज्ञप्तिवृत्तावुक्तत्वात्, तथाहि - 'अणुकंपकामनिज्जर, बालतवे दाणविणयविब्भंगे । संजोगविप्पओगे, वसणूसवइड्डिसक्कारे ||१|| " दृश्यते चैतदर्थसंवादः साक्षादेव महानिशीथे नागिलाधिकारे, तद्यथा-"अकामनिज्जराए वि किंचि कम्मक्खयं भवइ, किं पुण जं बालतवेणं ?'' एवं सतिं निरत्ययं तस्स'' इत्यादीनां का गतिरिति चेत् ? सत्यम् - सर्व्वाणि चैतान्युत्सर्गसूत्राणि, ततोऽत्र 'उत्सर्गादपवादो बलीयान्' अयमेव न्यायोऽनुसर्त्तव्यस्ततः सिद्धं तेषामपि तारतम्येन किञ्चित्किञ्चित् फलमिति समादधत इति ।।
"
(इ) तथा केचिन्महानिशीथगत (जे यावि निण्हगाणं अणुकूलं भासिज्जा इत्यादि) प्रसिद्धालापकमुपष्टभ्य वक्तारो भवन्ति, तथाहि-ये पक्षान्तरीयविहितंपतज्जिनप्रासादादिपरित्राणमाचार्योपाध्यायादीनामापन्निवारणं साधुमुद्दिश्य दानसत्कारादिकं चानुमन्यन्ते तेषां महत्पातकं जायते, सम्यक्त्वमपि प्रतिहन्यते, तेन मतान्तरीयकृतं युगप्रधानाचार्यभक्त्यादिकमपि सर्वथा नानुमोदनीयमेवेति । (उ) केचित्तु तानपि प्रतिवदन्ति यथा नयसार - (धन) श्रेष्ठि-सङ्गमादीनां मिथ्यात्वभाजामपि दानं बहुषु ग्रन्थेषु परम्परायां चानुमोद्यमानं दृश्यते, तथा सर्वतीर्थकृत्सातिशयसाधुपारणासु पञ्चदिव्यावसरे 'अहो ! दानमहो ! दानम्' इत्युद्द्द्घोषोऽपि यदनुमोदनीयं न तत्कार्यते कथं ? दृश्यन्ते च भवदादयः सर्वेऽपि मार्गप्रतिपन्नाः कारयन्तः, यथा - "देहि भो ! किश्चिदस्मभ्यं तव भूयान् लाभो भावी’” इति । यदि च प्रदत्ते तदा सन्तुष्टिरपि जायत इति स्वयमनुभूयमानस्यार्थस्य विलोप: : कर्तुं सतां नोचित इत्याशयवतैव सूत्रकारेणाभ्यधायि "अहवा सव्वं चिय वीअराय’” इत्यादि । अत्र सम्यग्दृष्टिपर्यन्तानां पूर्वमुक्तत्वान्मिथ्यात्विनामपि किञ्चित्करणीयमनुमोदनीयमित्यापतितम्, तच्च विचार्यमाणं जिनजिनबिम्बजिनालयाचार्योपाध्यायसाधुश्राद्धादीनां वास्तवाराध्यानामशनपानप्रदानादिभक्तिवर्णनसंज्वलनापत्परित्राणादिकं, दृश्यते चानुमोदितं साक्षादप्याचाराङ्गादौ साधुना साग्निशकटी पुरस्करणे "मम न कल्पते, भवता पुनः पुण्यप्राग्भारार्जन