________________
૧૨૩ – જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા
162
163.
164.
165.
166.
167.
"s
170.
168.
अनुभूतविषयासंप्रमोषः स्मृतिः । योगसूत्र 1.11
169. स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति, तद्विविषया तदूंनविषया वा न तु तदधिकविषया । तत्त्ववैशारदी 1.11
ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते, स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । योगभाष्य 1.11
तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् ... तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं भवति... । तत्त्ववैशारदी 1.11
तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्ययो ग्रहणाकारविशेष्यिका भवति घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु ग्राह्याकारविशेष्यिका भवति स घट इत्येव स्मरणात्, तत्ता च पूर्वज्ञानत्वरूपा, अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति, अयं चाकारभेदोऽनुभवसिद्ध इति भावः । तत्त्ववैशारदी 1.11
सा च द्वयी - भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या, जाग्रत्समये त्वभावितस्मर्तव्येति । योगभाष्य 1.11 । स्वप्ने हि कल्पनया स्मृतिविषया उद्भाव्यन्ते, जागरे न तथा । तत्त्ववैशारदी 1.11
171.
172.
भ्रमस्थले ज्ञानाकारस्यैव विषये समारोप इति भावः । योगवार्तिक 1.8। अत्र च शास्त्रेऽन्यथाख्यातिः सिद्धान्तो न तु साङ्ख्यवदविवेकमात्रम् । योगवार्तिक 1.8 ।
173.
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । योगसूत्र 1.9 । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । योगभाष्य 1.9 । क्वचिद् अभेदे भेदमारोपयति, क्वचित् पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य . च वस्तुतोऽभावात् तदाभासो विकल्पो न प्रमाणम्, नापि विपर्ययो व्यवहाराविसंवादात् । तत्त्ववैशा. 1.9 । अभावप्रत्ययालम्बना वृत्तिर्निद्रा । योगसूत्र 1.10। जाग्रतस्वप्नवृत्तीनामभाव:, तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमः तदेवालम्बनं विषयः यस्याः सा तथोक्ता वृत्तिर्निद्रा । तत्त्ववैशारदी 1.10.
सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेष :... स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे, तदाश्रिता स्मृतयश्च तद्विषया न स्युः, तस्मात् प्रत्ययविशेषो निद्रा । योगभाष्य 1.10