________________
रूप्यैर्युञ्छनके . विशिष्टवनिताक्लप्तेषु गीतेष्विह प्राप्ताः श्रीमदकब्बरौकसि तदा फत्तेपुरान्त:स्थिते ॥ १६६ ॥
॥युग्मम् ॥ स्वौकोद्वारि समागतान् यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्वैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विज्ञैस्तदा श्राद्धः प्राचि. भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥ १६७ ॥ चङ्गा हो गुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपविना पृष्टाः किमेतद् गुरो ! ॥ १६८ ॥ आहुः सूरिवरा नरेन्द्र ! वंसनाधः कीटिकाद्यङ्गिनां पीडा. मत्क्रमजास्तु मेति हृदये धीः स्याद्यतेयत्नतः । नैतस्योपरि मुच्यते न मयका स्वं पादपद्म जिनैः सर्वत्रापि यतेर्विशेषयतना प्रोक्ता स्वकीयागमे ॥ १६९ ॥ सूरीणामितिवाक्यसंश्रवणतः . श्रीपातिसाऽकब्बरस्तद्वस्त्रे .. स्वकरेण दूरविहितेऽध:कीटिकानिर्गमम् । दृष्ट्वा : प्राप - चमत्कृतिं गुरुगिरिप्रत्यक्षसंवादतः सर्वज्ञाग़म एव शुद्ध इति चार्हच्छासनस्थां पुनः ॥ १७० ॥ शुद्धायां भुवि सञ्चरन्नथ नृपः सञ्चारयंस्तान् गुरून् स्वस्वर्णासनसन्निधिं सुवचनैर्नीत्वाऽवदन्नातिमान् । अत्रैवोपदिशन्तु . धार्मिकशिरश्चूडामणिस्वक्रमस्पर्शात्पावितमध्यमेतदपि च स्याद्भालवन्मे गुरो ! ॥ १७१ ॥
आहुः श्रीगुरवः सुवर्णरजतस्पर्शो न कल्प्यः सदा भिक्षूणामिति भूपते ! ननु मया तन्नोपवेश्यं त्विह ।