SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ साङ्गानेरपुरागमं यतिपतेः शुश्राव दिल्लीपतिः .. श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् ।। श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना- . युक्तास्तच्चरणारविन्दनतये तावत्ततोऽभ्यागताः ॥ १६० ॥ श्राद्धास्तत्र नवाङ्गपूजनमिमे चक्रुः सुवर्णैस्तथा सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भूपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखार्त्तिह-. च्चेन्नायं किल पूज्यते तदिह क: स्यात्पूजनार्हः परः ॥ १६१ ॥ श्राद्धैर्लक्षमितैर्द्विलक्षगणितैश्चान्यैनरैर्दिल्लिराट्- .. शिक्षातोऽत्र समागतैः परिवृताश्चैलुस्तत: सूरयः । .. श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोद्दीप्तये भूपाकब्बरसंगमाय विहितोत्साहाः पवित्राशयाः ॥ १६२ ॥ आयाता इह नाथहीरविजयाचार्याः सुशिष्यान्विताइत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । स्वं सैन्यं सकलं. फतेपुरपुराद् गयूतषट्कान्तरायातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥ १६३ ॥ पुत्रैरेव निजैस्त्रिभिः परिवृतस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हृतखेदिताम् । ध्यात्वैवेति न. राज्यसंभवमदाद्यत्तादृशानां तथा सर्वेषामनुवर्त्तनं न च मदः स्वप्रेऽपि संपत्तिजः ॥ १६४॥ तत्सैन्यैर्हयहस्तिवीरपदिकैरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्रार्थिभिः । .. ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाद्येष्विभ स्कन्धारूढसहस्रसंख्यमनुजाध्यास्फालितेषूच्चकैः ॥ १६५ ॥ श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूल्लसन्मुक्ताराशिषु सर्वलोकवनितावर्गेण संनिर्मिते । NOODLWDELIDERNOOL SVO) 2NDOWNDOL , NC) ...
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy