SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद् ग्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सवं धनिजनैः सार्द्धं स राजा व्यधाच्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः 11 राजा तत्र निजे गृहे निजवशावन्दापनार्थं गुरूनाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् वर्द्धाप्योत्तमवस्त्रचक्रममुचत्तेषां पुरो भावत: संगृह्णन्ति न तस्य खण्डमपि ते स्म त्यक्तलोभास्तदा ॥ १४८॥ तेषां निःस्पृहचेतसां नरवरः शुद्धपदेशं तद्रा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥१४९॥ भूपं कौलिकचक्रंमादृतमहाधर्मं विधायोद्यताश्चेलुस्तन्नगरात् सुहीरविजयाचार्या विहार क्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितस्वर्नाथपुर्यां गताः पुर्यां भावुकलोकनेत्रयुगलानन्दप्रदास्याम्बुजाः || श्रुत्वैवं धाम्नां तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्यां घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् I स्वे स्वे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥ १५१॥ सुगुरुप्रवेशमहसे हट्टततेरिवात्ममनसां चक्रुर्जना मण्डनं द्रव्यव्ययाद्वर्णकैः मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे १४७॥ || पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः पुर्यां कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । ६२ १५०॥ १५२॥
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy