________________
तस्माच्छ्रीगुरवः पुराच्छुभदिने चेलुर्यतिभ्राजिताः स्युहँसा इव साधव स्वसमये नैव प्रमत्ता यतः । आयात्राः क्रमतो विहारचरिणः श्रीपत्तनाख्ये पुरे तत्रत्यैर्व्यवहारिभिर्वरमुदाङ्गेष्वर्चिताः स्वर्णकैः ॥ १४० ॥ श्राद्ध्या तत्र कयाचिदत्यधिकया भावेन चित्तेन च कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् । षड्लक्षै . रचनां त्रिकोट्टघटनामर्हद्गृहस्यादराद्विम्बन्यासमकारयच्च विविधानेकाङ्गिबोधिप्रदम् ॥ १४१ ॥ विजयसेनमहोदयसूरिभिर्विमलवाचकधर्मकसागरैः । घनतरैरपरैश्च कवीश्चरैः परिवृता गुरवोऽत्र समागताः ॥ १४२ ॥ तत्राभूव्यवहारिवर्गविहितस्तादृक् । तदाऽत्युत्सवो यादृग् वीरजिने समस्तगणंभृत्साध्वन्वितेऽप्यागते । देवेन्द्रैर्विहितश्चतुर्थसमये - साक्षात्रिकोट्टाश्रये सत्सु स्यान्न हि किं सतामनुकृतिः सर्वत्र सञ्चारिषु ? ॥ १४३ ॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थितानित्यं . तत्प्रतिमाप्रणामसमये तादृग्महःपूर्वकम् । चेलुस्तत्र च धर्मसागरमहोपाध्यायमुख्यान् यतीन् संस्थाप्याऽनुगमोद्यतान् हितकरी दत्त्वा सुशिक्षां ततः ॥ १४४ ॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने ।। अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥ १४५ ॥ तांस्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणादत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिता: श्रीशान्तिचन्द्रादिकान्। लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान् विज्ञा एव हि राजसंसदि सदा स्युभूषणं नापरे ॥ १४६ ॥