SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भूपाकब्बरनुनवीरनिचयाः सद्योऽधिरूढा गिरौ हत्वा. श्रीजयमल्लभूपतिभटान्निर्मायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा वीराधिवीराग्रतः प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ॥ ११५॥ वीरैस्तत्र . वृतोऽप्यकब्बरनृपोऽध्यारूढ उच्चैरिव व्योम्न्यर्कः प्रबलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स. वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः ? || ११६ ॥ भूपाकब्बरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः । तत्र स्थातुमशक्त . एष नृपतिर्नीचैस्ततोऽप्युत्तरन् मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ॥ ११ ॥ दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णं सदा । हा हा किं मयकाडत्र कारितमिदं चण्डालकर्माधिकम् ?। कुर्वंश्चानुशयं शिरः . . करयुगेणास्फालयन्नित्यवक् यः पापं किल चित्रकूटरचनं गृह्णाति तस्याव्यहम् ॥ ११८॥ एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पयामीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुद्गलः । तद्दत्तं च गिरीश्वरं पुरवरग्रामाधुपेतं तदा लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवाक्सञ्चयम् ? ॥ ११९॥ ... . ॥ त्रिभिः कुलकम् ॥ भूपोऽप्येष समाधिमानिजभटैरावेष्टितो राणके देशे शासनमुत्तमं निजपदेनावर्त्तयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनमुक्तवान् भव्यः पापकृतेर्बिभेति हृदये कृत्वैकवारं पुनः ॥ १२० ।। OTOCO90 BROKEN NOONDO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy