________________
उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं चित्ते चिन्तयतिं स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥ १०२॥
वीरास्तंत्कपिशीर्षकेषु सबला भूपेन संस्थापितावर्षन्तो विविधाश्मलोहनिबिडास्त्राणीव मेघाश्छटा: I चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥ १०३ ॥ सामान्योऽपि जनस्तदा धनिबलात् कोट्टोद्धर्वभूमौ स्थितो धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले · हरिकरव्यामुक्तवज्रोपमं तेजस्विन्यधिपे दिवाकर इवाहः सन्निभाः सेवकाः 11 एवं श्रीजयमल्लभूपसुभट श्रीचित्रकूटाचल
१०४॥
त्राणार्थं स्वकरद्वयं खरतरैः शस्त्रैर्न शून्यं कृतम् । वक्त्रं मुद्गनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनैः सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्
||
दष्ट्वा वीरकरान्
समस्तमनुंजास्योद्भूतदुर्वाक्चयं
श्रुत्वा चाख्यदकब्बरो नरपतिर्गृह्णामि चेदेतकम् ' तत्सर्वान् पुरुषान्निहन्मि वनिताबन्धं भटैः कारयामीति स्पष्टगिरा समस्तसुभटानुत्साहयन् सत्त्वतः || क्रुद्धोऽकब्बरभूपतिर्गिरितले गुप्तं तथा खानयन् मातं तत्र यथा चतुर्दशशतप्रायैर्मणैरोषधम् I भृत्पात्रं शिखिबिन्दुसङ्गविलसत्तेजोऽतिशक्त्या दृषद्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सज्जितम् || तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचलव्याबाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्रले ।
५५
१०५॥
१०६॥
१०७॥