________________
F
तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरान्निर्गतः सैन्यैः सारतरैर्वृतो गिरिशिरः कोट्टादिभङ्गोद्यतैः तस्याऽभ्यागमन श्रुतेर्निजपुराद्राणो धनाद्यं निजं लात्वा कुम्भलमेरुकोट्टमभजद् ग्राह्यं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचटद्योद्धुं म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहंश्चित्ते चिन्तयदित्यशेषसुभटैः किं चित्रकूटाचल: पूर्वं ग्राहय उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तद्भृत्यो जयमल्लभूपतिरसौ मन्मार्गवक्त्रे स्थित: एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः पार्श्वे श्रीजयमल्लनामनृपतिर्दूतं तदा प्राहिणोत् 1 दूतोऽप्याख्यदिदं महीश ! नृपतिश्रीराणभृत्यान्तिमो मद्वक्त्रे जयमल्लभूपतिरिति त्वां ख्यापयत्युत्कटः 11 त्वं चेद्भूप हमाउनन्दन इति ख्यातोऽसि तर्ह्यत्र मे वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने व्रजान्यत्र वा । त्वद्भक्तिं च विधातुमत्र विभुना राणेन संस्थापित: प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः
||
एवं तर्कपरोऽपि श्चक्रेऽकब्बरभूपतिर्धनतरोपायान्
||
सत्त्वजलधिस्तद्भञ्जनायोद्यत
भटप्रेरकः
५४
९६॥
९७॥
९८॥
दूताख्यातमिदं निशम्य नृपतिः पूर्वं ततोऽत्रापतत् कोट्टं पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको वैताढ्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम् ? ॥ १०१॥
९९॥
१००॥