________________
तत्राभून्नवलक्षवाजिसुभट: सूरः प्रतिष्ठानपो मत्तेभाद्विचतुःसहस्रगुणनः कोट्युग्रपत्तीश्वरः युद्धे येन च राष्ट्रकूटकुलभूः श्रीमल्लदेवो जित: श्रीमद्योपुरेश्वरो मरुपतिदुर्वारवीरावृतः ॥ तस्मै सूरनरेश्वराय निपुणं दूतं तदा प्राहिणोच्छ्रीमन्मुद्गलनायकः परिसरे स्थित्वा सुनीतिं वहन् । दूतोऽप्याऽऽख्यदिदं हमाउनृपतेः पादप्रणामं कुरु - श्रीदिल्लीश ! भवाहवाय सुतरां सज्जोऽथवेतो व्रज ॥ ४६॥
श्रुत्वा दूतवचोऽवदन्नरपतिः सूरोऽतिगर्वोद्धुरः कोऽयं मत्पुरतो हमाउनृपतिर्वाणिज्यकृद्वम्भ्रमी दत्त्वाऽश्वांश्चिरसञ्चितान्मणिगणान् स्वर्णं च रुप्यं वशा वीराणां च शिरांसि यास्यति वपुः शेषः सुशेषीभवन् ॥ ४७ ॥ याहि त्वं वद दूत ! मद्वच इदं तस्मै निजस्वामिने भूयाः सज्ज इहाहवेऽहमनुगस्तेऽभ्यागतः सांप्रतम् । इत्युक्त्वा गलहस्तदानमकरोद्दूतस्य 'सूरो नृपः कोपो यत्स्वविनाशकारिसमये दुष्टं विधिं कारयेत् ॥ ४८ ॥
दूतस्तद्वचनं स्वलाघवकृतिं माख्यात तन्मत्तां श्रुत्वा काबिलनायकोऽपि हृदयेऽप्युल्लासमुच्चैर्दघौ T नो भीतिं निजबाणवीर्यचकितं जानन्नदृश्यं हरिं किं पर्जन्यविगर्जन श्रवणतो बिभ्येति पाथः पतिः ? ढक्कावादनपूर्वकं नरपति: सूरोऽपि सैन्यं निजं सन्नद्धं विविधाऽस्त्रपङ्किकिरणैर्लुप्तोष्णपादांशुकम् I एकीकृत्य चचाल मुद्गलपतेः सैन्यं तृणप्रायकं जानन् मत्तमतङ्गजावलिरणद्धण्टारवाडम्बरः 11
सङ्ग्रामाङ्गणमागतं क्षितिपतिं दृष्ट्वा हमाऊनृप - स्तं वीरान् द्विसहस्रमानगणितान् युद्धार्थमाज्ञापयत् ।
४५॥
४६
11 8911
५० ॥