________________
गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाद्भट्टतो मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ ग्रन्था — न्यायविदां विवेचनकृतां वैशेषिकाणां पुनभट्टस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि
परब्रह्माद्वयोत्संविदां भट्टात्पण्डितचक्रिणोऽत्र पठिताः श्रीहीरहर्षेण ते ॥ २६॥ सार्द्ध धर्ममुनीश्वरेण सकलग्रन्थार्थपारङ्गमी भूत्वा श्रीगुरुसन्निधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं दूरे गुरोर्न स्थितिः सिद्धेऽर्थे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयत् ॥ २७॥ योग्यत्वं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्रियोश्चक्रे वाचकसंज्ञितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदबीमारोपयेद्यो गुरुः स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेषं गुरुजिज्ञासुर्जिनशासनामरमसावाराधयत् . साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविध्वंसिनः षण्मासी तपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ॥ २९॥ ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवानत्वा पादपयोरुहं . गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं. गुरुपतिभूषणकरं राजप्रबोधोदितं व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३०॥ दैवं वाक्यमिदं निशम्य मुमुदे श्रीमत्तपागच्छराट् मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धौघपर्षद्यह
वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेज:स्थितिः ॥ ३१॥ DODOP[x3 BOO M