________________
वाग्युक्त्या पितरं प्रबोध्य भगिनीं वा मातरं शुद्धया तैर्दत्ताऽनुमतिव्रतं स जगृहै पौरैः कृतात्युत्सवम् ।। बाले प्रव्रजति प्रधानधनभुक् त्यक्त्वा कुटुम्बं निजं धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजर्द्विव्ययम् ॥ १९॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः साधूनां व्यवहारिणामिति गुरुः श्रीहीरहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाबाद्यक्षरप्रीतितः .. सन्तोऽन्वर्थकनाम यद्विदधति प्राज्ञे विनेये सुते ॥ २० ॥ धृत्वा पञ्चमहाव्रतानि समितिप्रोद्दामगुप्त्यङ्किता- . न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत् शाकट्येऽध्ययने च देवगुरुवद्दर्भाग्रबुद्धिर्मुनिः ॥ : २१ ॥ विद्यासागरवाचकस्य · गुणिभिः शिष्यैर्वयोधीसमैः सार्द्धं सद्वतिधर्मसागरवरैः । श्रीमद्गुरोरग्रतः। सम्यग् व्याकरणं . कवित्वरचनाग्रन्थांस्तथाऽर्हन्मतन्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥ २२ ॥ सर्वार्हन्मतशास्त्रपारमगमच्छीहीरहर्षों , मुनि-. र्जातोऽन्यागमदर्शनोत्सुकमनाः . श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति, गिरा विज्ञप्तिकामातनोत् स्वामिन् ! मे · परशासनागमवचोयुक्तिप्रकाशे मनः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो व्रज मुने ! श्रीदक्षिणाशां. प्रति योग्यं धर्ममुनिं सहायमधुनैवादाय रामो यथा । . श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपार्श्वे कुरु स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४॥ लब्ध्वाज्ञामिति सद्गुरोः कविवरः श्रीहीरहर्षो मुनिः
सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । COPPI[X BODO