________________
बुद्ध्यानन्त्यमंशेषरोचकतया चित्तेषु चाश्चर्यतः ॥१२॥ अन्यैद्युनगरान्निजात् स्वभगिनीगेहे समाजग्मिवान् श्रीमद्गूर्जरपत्तने कविजनैः स्व:खण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान् स्फुटम् ॥ १३॥ तेषां वाचमनेकवाउमयरसक्लिन्नां विरक्तात्मनां वैराग्याऽमृतंवर्धिनीं श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लोहैरभेद्यस्ततः शुद्धाचारतपोग्रहोद्यतमतिर्जातः . सुजाताङ्गवत् ॥ १४॥ वैराग्यं भवरङ्गरूक्षहदयादाविश्चकार स्वसुर्गत्वा धाम्नि पुरस्ताविधवचःश्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया भूमध्यादिव वा जलं खननकृच्छक्त्या करप्राप्तया ॥ १५॥ तं दीक्षापरमानसं . स्वसृवरा ज्ञात्वा कुटुम्बं निजं तत्राऽऽकार्य पितुः पुरोऽवददिदं, मुक्ताश्रुभूभेदिनी । भ्राता . मे भवभीरुरेष : भवतां पुत्रस्तपस्याग्रही वार्यो वयंधिया कुलाचल इवास्त्येको भवन्मन्दिरे ॥ १६॥ पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं. सुतं . वत्स ! त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती 'ममास्ति मम तद्धद्धस्थितिं पालय त्वं मद्नेहधुरं. वहाऽहमधुना धर्मं करोमि स्थिरः ॥ १७॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते
श्चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तूदयः ॥ १८॥ COLOlxp
BOOBS