________________
कुत्रापि सन्दृब्धमहेन्द्रनील-निकेतनानामिहक कैतवेन । महीमहेलामिव विप्रयुक्तां चिरादवापे मिलितुं घनेन ॥ ११२ ॥ ६५ चिरात्स्वविश्लेषवतीं धरित्रीं, पयोमुचा स्थासयितुं नभस्तः । प्रस्थापिता यत्र मणीसुवर्ण-प्रासाददम्भाजजलबालिकेव ॥ ११३ ॥ कुत्रापि जागर्त्ति पुरीतडाको - दरे प्रतिच्छायितमुद्वहन्ती । यद्वैभवेनेव पराभिभूता, प्रदत्तरूपा नगरी सुराणाम् ॥ ११४॥
शोचिर्निशुम्भिततमस्ततिसान्द्रचन्द्र - सम्बद्धसौधनिवहा अवहन् विभूषाम् भक्तिप्रसन्नहरलब्धवरक्षताङ्कां शीतांशवः किमु महीमवतीर्णवन्तः
६‘बालारुणज्योतिरखर्व्वगर्व्व - 'सर्व्वङ्कषैः शोणमणीनिकेतैः । धरा तुरासाहमिवस्वकान्त मुद्गीर्णरागप्रसरैर्नगर्याः ॥ ११५ ॥ इति ॥
1. निर्व्वासि शोणाश्मगृहैर्बभासे इति टि०
टिप्पणी
६५.
ज्योतिःपयःपूरतरङ्गितैतन्निवासनीलाश्मशिखामिषेण । एतत्पथेनार्कसुता स्ववप्तुः सम्प्रस्थितोच्चैर्मिलितोत्सुकेव ॥ ३३ ॥ 'गाङ्गो(ङ्गे)यगारुन्मतपद्मराग-चन्द्राश्मसंदृब्धगृहच्छलेन । स्वभूपभर्त्रा सह सङ्गरङ्गे पुरश्रिया क्लृप्त इवानुरागः ॥ ३४॥ ६६. बालारुणज्योतिरखर्वगर्व- सर्वङ्कषैः शोणमणीनिकेतैः ।
धरातुरा साहमि नु( ?) स्वकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥ ३५॥ भक्तिप्रसन्नाद्गिरिशादवाप्तां, गलत्कलङ्कां बहुरूपविद्याम् । यच्चान्द्रसद्मंच्छलतः सितांशुः किं कौतुकीव प्रथयाञ्चकार ॥ ३६ ॥ यत्पौरपुंसै रतिजानिगर्व-निर्वासिभिः श्रीभिरिवाभिभूतः । मन्दीभवन्भूभृदधित्यकाया - मावासमालम्बत नारकारिः ॥ १॥ यन्नगरैर्भर्त्सितमच्छय(त्स्य) केतु- श्रीभिः पराभूतिमयाप्यमाना । विहस्तचित्तेवं ततिः सुराणां स्वः सार्वभौमं शरणीचकार ॥ २ ॥ पौरश्रियं प्रेक्ष्य तदेकतानी - भूतां स्वकान्तामवलोक्य यत्र । लक्ष्मच्छलेनाऽपररागशीका, शङ्के शशी श्याममुखीबभूव ॥ ३ ॥ यत्पौरलोकानवलोक्य मा स्ता- तलुब्धचेता गिरिनन्दनाऽसौ । स्वाङ्गं तदङ्गेन तदन्यसङ्ग-शङ्कीव शम्भुर्व्यतिसीव्यते स्म ॥ ४ ॥ 1. अयं लोकः ९२तमलोकस्य पाठान्तरोऽस्ति ।
॥ १५॥
३३